भगवन्नाम्नि रुचिर्नास्ति चित्तं विषयलोलुपम्
तथापि परमार्थेच्छा सिद्धिं नयतु त्वत्कृपा
ईषणात्रयमुक्तं मे मानसं स्यात् कदा गुरो
कदा नामामृतस्वादलोलुपा रसना भवेत्
भुञ्जानस्य तु प्रारब्धं न धैर्यं मम नश्यतु
स्मरणं दिव्यनाम्नस्ते प्रसादयतु मानसम्
शुचीनां श्रीमतां गेहे अन्यस्मिन् जन्मनि प्रभो
तव सेवारतं सफलं आयुर्मे देहि निश्चितम्
श्रोत्रियं ब्रह्मनिष्ठं च सद्गुरुं रघुनाथ त्वाम्
नमामि मनसा भक्त्या भवबन्धनिवारकम्
कोणत्याही टिप्पण्या नाहीत:
टिप्पणी पोस्ट करा